Upanishads |
Bahvricha Upanishad
Sanskrit Devanagari with Roman transliteration (IAST)
॥ बह्वृचोपनिषत् ॥
॥ bahvṛcopaniṣat ॥
॥ अथ बह्वृचोपनिषत्॥
॥ atha bahvṛcopaniṣat॥
ॐ वाङ्मे मनसि प्रतिष्ठिता ।
oṃ vāṅme manasi pratiṣṭhitā ।
मनो मे वाचि प्रतिष्ठितम् ।
mano me vāci pratiṣṭhitam ।
आविरावीर्म एधि ।
āvirāvīrma edhi ।
वेदस्य म आणीस्थः ।
vedasya ma āṇīsthaḥ ।
श्रुतं मे मा प्रहासीः ।
śrutaṃ me mā prahāsīḥ ।
अनेनाधीतेनाहोरात्रान्सन्दधामि ।
anenādhītenāhorātrānsandadhāmi ।
ऋतं वदिष्यामि ।
ṛtaṃ vadiṣyāmi ।
सत्यं वदिष्यामि ।
satyaṃ vadiṣyāmi ।
तन्मामवतु ।
tanmāmavatu ।
तद्वक्तारमवतु ।
tadvaktāramavatu ।
अवतु माम् ।
avatu mām ।
अवतु वक्तारम् ।
avatu vaktāram ।
अवतु वक्तारम् ।
avatu vaktāram ।
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
बह्वृचाख्यब्रह्मविद्यामहाखण्डार्थवैभवम् ।
bahvṛcākhyabrahmavidyāmahākhaṇḍārthavaibhavam ।
अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥
akhaṇḍānandasāmrājyaṃ rāmacandrapadaṃ bhaje ॥
हरिः ॐ ॥
hariḥ oṃ ॥
देवी ह्येकाग्र एवासीत् ।
devī hyekāgra evāsīt ।
सैव जगदण्डमसृजत् ।
saiva jagadaṇḍamasṛjat ।
कामकलेति विज्ञायते ।
kāmakaleti vijñāyate ।
शृंगारकलेति विज्ञायते ॥ १॥
śṛṃgārakaleti vijñāyate ॥ 1॥
तस्या एव ब्रह्मा अजीजनत् ।
tasyā eva brahmā ajījanat ।
विष्णुरजीजनत् ।
viṣṇurajījanat ।
रुद्रोऽजीजनत् ।
rudro'jījanat ।
सर्वे मरुद्गणा अजीजनत् ।
sarve marudgaṇā ajījanat ।
गन्धर्वाप्सरसः किन्नरा वादित्रवादिनः समन्तादजीजनत् ।
gandharvāpsarasaḥ kinnarā vāditravādinaḥ samantādajījanat ।
भोग्यमजीजनत्।
bhogyamajījanat।
सर्वमजीजनत् ।
sarvamajījanat ।
सर्वं शाक्तमजीजनत् ।
sarvaṃ śāktamajījanat ।
अण्डजं स्वेदजमुद्भिज्जं जरायुजम् यत्किंचैतत् प्राणि
स्थावरजंगमं मनुष्यमजीजनत् ॥ २॥
aṇḍajaṃ svedajamudbhijjaṃ jarāyujam yatkiṃcaitat prāṇi
sthāvarajaṃgamaṃ manuṣyamajījanat ॥ 2॥
सैषा परा शक्तिः ।
saiṣā parā śaktiḥ ।
सैषा शांभवीविद्या कादिविद्येति वा हादिविद्येति
वा सादिविद्येति वा ।
saiṣā śāṃbhavīvidyā kādividyeti vā hādividyeti
vā sādividyeti vā ।
रहस्यमोमों वाचि प्रतिष्ठा ॥ ३॥
rahasyamomoṃ vāci pratiṣṭhā ॥ 3॥
सैव पुरत्रयं शरीरत्रयं व्याप्य
बहिरन्तरवभासयन्ती
देशकालवस्त्वन्तरसंगान्महात्रिपुरसुन्दरी
वै प्रत्यक्चितिः ॥ ४॥
saiva puratrayaṃ śarīratrayaṃ vyāpya
bahirantaravabhāsayantī
deśakālavastvantarasaṃgānmahātripurasundarī
vai pratyakcitiḥ ॥ 4॥
सैवात्मा ततोऽन्यमसत्यमनात्मा ।
saivātmā tato'nyamasatyamanātmā ।
अत एषा
ब्रह्मासंवित्तिर्भावभावकलाविनिर्मुक्ता
चिद्विद्याऽद्वितीयब्रह्मसंवित्तिः सच्चिदानन्दलहरी
महात्रिपुरसुन्दरी बहिरन्तरनुप्रविश्य
स्वयमेकैव विभाति ।
ata eṣā
brahmāsaṃvittirbhāvabhāvakalāvinirmuktā
cidvidyā'dvitīyabrahmasaṃvittiḥ saccidānandalaharī
mahātripurasundarī bahirantaranupraviśya
svayamekaiva vibhāti ।
यदस्ति सन्मात्रम् ।
yadasti sanmātram ।
यद्विभाति चिन्मात्रम् ।
yadvibhāti cinmātram ।
यत्प्रियमानन्दं तदेतत् पूर्वाकारा
महात्रिपुरसुन्दरी ।
yatpriyamānandaṃ tadetat pūrvākārā
mahātripurasundarī ।
त्वं चाहं च सर्वं विश्वं सर्वदेवता
इतरत् सर्वं महात्रिपुरसुन्दरी ।
tvaṃ cāhaṃ ca sarvaṃ viśvaṃ sarvadevatā
itarat sarvaṃ mahātripurasundarī ।
सत्यमेकं ललिताख्यं वस्तु
तदद्वितीयमखण्डार्थं परं ब्रह्म ॥ ५॥
satyamekaṃ lalitākhyaṃ vastu
tadadvitīyamakhaṇḍārthaṃ paraṃ brahma ॥ 5॥
पञ्चरूपपरित्यागा दर्वरूपप्रहाणतः ।
pañcarūpaparityāgā darvarūpaprahāṇataḥ ।
अधिष्ठानं परं तत्त्वमेकं सच्छिष्यते महत् ॥
adhiṣṭhānaṃ paraṃ tattvamekaṃ sacchiṣyate mahat ॥
इति ॥ ६॥
iti ॥ 6॥
प्रज्ञानं ब्रह्मेति वा अहं ब्रह्मास्मीति वा भाष्यते ।
prajñānaṃ brahmeti vā ahaṃ brahmāsmīti vā bhāṣyate ।
तत्त्वमसीत्येव संभाष्यते ।
tattvamasītyeva saṃbhāṣyate ।
अयमात्मा ब्रह्मेति वा ब्रह्मैवाहमस्मीति वा ॥ ७॥
ayamātmā brahmeti vā brahmaivāhamasmīti vā ॥ 7॥
योऽहमस्मीति वा सोहमस्मीति वा योऽसौ सोऽहमस्मीति वा
या भाव्यते सैषा षोडशी श्रीविद्या पञ्चदशाक्षरी
श्रीमहात्रिपुरसुन्दरी बालांबिकेति बगलेति वा मातंगीति
स्वयंवरकल्याणीति भुवनेश्वरीति चामुण्डेति चण्डेति
वाराहीति तिरस्करिणीति राजमातंगीति वा शुकश्यामलेति वा
लघुश्यामलेति वा अश्वारूढेति वा प्रत्यंगिरा धूमावती
सावित्री गायत्री सरस्वती ब्रह्मानन्दकलेति ॥ ८॥
yo'hamasmīti vā sohamasmīti vā yo'sau so'hamasmīti vā
yā bhāvyate saiṣā ṣoḍaśī śrīvidyā pañcadaśākṣarī
śrīmahātripurasundarī bālāṃbiketi bagaleti vā mātaṃgīti
svayaṃvarakalyāṇīti bhuvaneśvarīti cāmuṇḍeti caṇḍeti
vārāhīti tiraskariṇīti rājamātaṃgīti vā śukaśyāmaleti vā
laghuśyāmaleti vā aśvārūḍheti vā pratyaṃgirā dhūmāvatī
sāvitrī gāyatrī sarasvatī brahmānandakaleti ॥ 8॥
ऋचो अक्षरे परमे व्योमन् ।
ṛco akṣare parame vyoman ।
यस्मिन् देवा अधि विश्वे निषेदुः ।
yasmin devā adhi viśve niṣeduḥ ।
यस्तन्न वेद किं ऋचा करिष्यति।
yastanna veda kiṃ ṛcā kariṣyati।
य इत्तद्विदुस्त इमे समासते।
ya ittadvidusta ime samāsate।
इत्युपनिषत् ॥ ९॥
ityupaniṣat ॥ 9॥
ॐ वाङ्मे मनसि प्रतिष्ठिता ।
oṃ vāṅme manasi pratiṣṭhitā ।
मनो मे वाचि प्रतिष्ठितम् ।
mano me vāci pratiṣṭhitam ।
आविरावीर्म एधि ।
āvirāvīrma edhi ।
वेदस्य म आणीस्थः ।
vedasya ma āṇīsthaḥ ।
श्रुतं मे मा प्रहासीः ।
śrutaṃ me mā prahāsīḥ ।
अनेनाधीतेनाहोरात्रान् संदधामि ।
anenādhītenāhorātrān saṃdadhāmi ।
ऋतं वदिष्यामि ।
ṛtaṃ vadiṣyāmi ।
सत्यं वदिष्यामि ।
satyaṃ vadiṣyāmi ।
तन्मामवतु ।
tanmāmavatu ।
तद्वक्तारमवतु ।
tadvaktāramavatu ।
अवतु माम् ।
avatu mām ।
अवतु वक्तारम् ।
avatu vaktāram ।
अवतु वक्तारम् ।
avatu vaktāram ।
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ इति बह्वृचोपनिषत् ॥
॥ iti bahvṛcopaniṣat ॥