Upanishads |
Ganapati Upanishad (Shri Ganapati Atharvashirsha Upanishad)
Sanskrit Devanagari with Roman transliteration (IAST)
॥ श्रीगणपत्यथर्वशीर्षोपनिषत् गणपत्युपनिषत् ॥
॥ śrīgaṇapatyatharvaśīrṣopaniṣat gaṇapatyupaniṣat ॥
यं नत्वा मुनयः सर्वे निर्विघ्नं यान्ति तत्पदम् ।
yaṃ natvā munayaḥ sarve nirvighnaṃ yānti tatpadam ।
गणेशोपनिषद्वेद्यं तद्ब्रह्मैवास्मि सर्वगम् ॥
gaṇeśopaniṣadvedyaṃ tadbrahmaivāsmi sarvagam ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवा्ँ सस्तनूभिः ।
sthirairaṅgaistuṣṭuvām̐ sastanūbhiḥ ।
व्यशेम देवहितं यदायुः ।
vyaśema devahitaṃ yadāyuḥ ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
svasti na indro vṛddhaśravāḥ ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
svasti naḥ pūṣā viśvavedāḥ ।
svasti nastārkṣyo ariṣṭanemiḥ ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
svasti no bṛhaspatirdadhātu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ नमस्ते गणपतये ।
त्वमेव प्रत्यक्षं तत्त्वमसि ।
त्वमेव केवलं कर्तासि ।
त्वमेव केवलं धर्तासि ।
त्वमेव केवलं हर्तासि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं साक्षादात्मासि नित्यम् ॥ १॥
hariḥ oṃ namaste gaṇapataye ।
tvameva pratyakṣaṃ tattvamasi ।
tvameva kevalaṃ kartāsi ।
tvameva kevalaṃ dhartāsi ।
tvameva kevalaṃ hartāsi ।
tvameva sarvaṃ khalvidaṃ brahmāsi ।
tvaṃ sākṣādātmāsi nityam ॥ 1॥
ऋतं वच्मि ।
सत्यं वच्मि ।
अव त्वं माम् ।
अव वक्तारम् ।
अव श्रोतारम् ॥ २॥
ṛtaṃ vacmi ।
satyaṃ vacmi ।
ava tvaṃ mām ।
ava vaktāram ।
ava śrotāram ॥ 2॥
अव दातारम् ।
अव धातारम् ।
अवानूचानमव शिष्यम् ।
अव पश्चात्तात् ।
अव पुरस्तात् ।
अवोत्तरात्तात् ।
अव दक्षिणात्तात् ।
अव चोर्ध्वात्तात् ।
अवाधरात्तात् ।
सर्वतो मां पाहि पाहि समन्तात् ॥ ३॥
ava dātāram ।
ava dhātāram ।
avānūcānamava śiṣyam ।
ava paścāttāt ।
ava purastāt ।
avottarāttāt ।
ava dakṣiṇāttāt ।
ava cordhvāttāt ।
avādharāttāt ।
sarvato māṃ pāhi pāhi samantāt ॥ 3॥
त्वं वाङ्मयस्त्वं चिन्मयः ।
त्वमानन्दमयस्त्वं ब्रह्ममयः ।
त्वं सच्चिदानन्दाद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि ।
त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४॥
tvaṃ vāṅmayastvaṃ cinmayaḥ ।
tvamānandamayastvaṃ brahmamayaḥ ।
tvaṃ saccidānandādvitīyo'si ।
tvaṃ pratyakṣaṃ brahmāsi ।
tvaṃ jñānamayo vijñānamayo'si ॥ 4॥
सर्वं जगदिदं त्वत्तो जायते ।सर्वं जगदिदं त्वत्तस्तिष्ठति ।
सर्वं जगदिदं त्वयि लयमेष्यति ।
सर्वं जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोऽनलोऽनिलो नभः ।त्वं चत्वारि वाक्पदानि ॥ ५॥
sarvaṃ jagadidaṃ tvatto jāyate ।sarvaṃ jagadidaṃ tvattastiṣṭhati ।
sarvaṃ jagadidaṃ tvayi layameṣyati ।
sarvaṃ jagadidaṃ tvayi pratyeti ।
tvaṃ bhūmirāpo'nalo'nilo nabhaḥ ।tvaṃ catvāri vākpadāni ॥ 5॥
त्वं गुणत्रयातीतः ।
त्वं अवस्थात्रयातीतः ।
त्वं देहत्रयातीतः ।
त्वं कालत्रयातीतः ।
त्वं मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः ।त्वां योगिनो ध्यायन्ति नित्यम् ।
त्वं ब्रह्मा त्वं विष्णुस्त्वं
रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं
चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् ॥ ६॥
tvaṃ guṇatrayātītaḥ ।
tvaṃ avasthātrayātītaḥ ।
tvaṃ dehatrayātītaḥ ।
tvaṃ kālatrayātītaḥ ।
tvaṃ mūlādhārasthito'si nityam ।
tvaṃ śaktitrayātmakaḥ ।tvāṃ yogino dhyāyanti nityam ।
tvaṃ brahmā tvaṃ viṣṇustvaṃ
rudrastvamindrastvamagnistvaṃ vāyustvaṃ sūryastvaṃ
candramāstvaṃ brahma bhūrbhuvaḥ svarom ॥ 6॥
गणादिं पूर्वमुच्चार्य वर्णादिंस्तदनन्तरम् ।
अनुस्वारः परतरः ।
अर्धेन्दुलसितम् ।
तारेण ऋद्धम् ।
एतत्तव मनुस्वरूपम् ।
गकारः पूर्वरूपम् ।
अकारो मध्यमरूपम् ।
अनुस्वारश्चान्त्यरूपम् ।
बिन्दुरुत्तररूपम् ंआदः सन्धानम् ।
संहिता सन्धिः ।
सैषा गणेशविद्या ।
गणक ऋषिः ।
निचृद्गायत्री छन्दः ।
श्रीमहागणपतिर्देवता ।
ॐ गं गणपतये नमः ॥ ७॥
gaṇādiṃ pūrvamuccārya varṇādiṃstadanantaram ।
anusvāraḥ parataraḥ ।
ardhendulasitam ।
tāreṇa ṛddham ।
etattava manusvarūpam ।
gakāraḥ pūrvarūpam ।
akāro madhyamarūpam ।
anusvāraścāntyarūpam ।
binduruttararūpam ṃādaḥ sandhānam ।
saṃhitā sandhiḥ ।
saiṣā gaṇeśavidyā ।
gaṇaka ṛṣiḥ ।
nicṛdgāyatrī chandaḥ ।
śrīmahāgaṇapatirdevatā ।
oṃ gaṃ gaṇapataye namaḥ ॥ 7॥
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्तिः प्रचोदयात् ॥ ८॥
ekadantāya vidmahe vakratuṇḍāya dhīmahi ।
tanno dantiḥ pracodayāt ॥ 8॥
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९॥
ekadantaṃ caturhastaṃ pāśamaṅkuśadhāriṇam ।
radaṃ ca varadaṃ hastairbibhrāṇaṃ mūṣakadhvajam ।
raktaṃ lambodaraṃ śūrpakarṇakaṃ raktavāsasam ।
raktagandhānuliptāṅgaṃ raktapuṣpaiḥ supūjitam ।
bhaktānukampinaṃ devaṃ jagatkāraṇamacyutam ।
āvirbhūtaṃ ca sṛṣṭyādau prakṛteḥ puruṣātparam ।
evaṃ dhyāyati yo nityaṃ sa yogī yogināṃ varaḥ ॥ 9॥
नमो व्रातपतये नमो गणपतये नमः प्रमथपतये
नमस्तेऽस्तु लम्बोदराय एकदन्ताय विघ्नविनाशिने
शिवसुताय श्रीवरदमूर्तये नमः ॥ १०॥
namo vrātapataye namo gaṇapataye namaḥ pramathapataye
namaste'stu lambodarāya ekadantāya vighnavināśine
śivasutāya śrīvaradamūrtaye namaḥ ॥ 10॥
एतदथर्वशीर्षं योऽधीते ।
स ब्रह्मभूयाय कल्पते ।
स सर्वविघ्नैर्न बाध्यते ।
स सर्वतः सुखमेधते ।
स पञ्चमहापापात् प्रमुच्यते ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति ।
धर्मार्थकाममोक्षं च विन्दति ।
इदमथर्वशीर्षमशिष्याय न देयम् ।
यो यदि मोहाद् दास्यति ।
स पापीयान् भवति ।
सहस्रावर्तनाद्यं यं काममधीते ।
तं तमनेन साधयेत् ॥ ११॥
etadatharvaśīrṣaṃ yo'dhīte ।
sa brahmabhūyāya kalpate ।
sa sarvavighnairna bādhyate ।
sa sarvataḥ sukhamedhate ।
sa pañcamahāpāpāt pramucyate ।
sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।
prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati ।
sāyaṃ prātaḥ prayuñjānaḥ pāpo'pāpo bhavati ।
dharmārthakāmamokṣaṃ ca vindati ।
idamatharvaśīrṣamaśiṣyāya na deyam ।
yo yadi mohād dāsyati ।
sa pāpīyān bhavati ।
sahasrāvartanādyaṃ yaṃ kāmamadhīte ।
taṃ tamanena sādhayet ॥ 11॥
अनेन गणपतिमभिषिञ्चति ।
स वाग्मी भवति ।
चतुर्थ्यामनश्नन् जपति ।
स विद्यावान् भवति ।
इत्यथर्वणवाक्यम् ।
ब्रह्माद्याचरणं विद्यान्न बिभेति कदाचनेति ॥ १२॥
anena gaṇapatimabhiṣiñcati ।
sa vāgmī bhavati ।
caturthyāmanaśnan japati ।
sa vidyāvān bhavati ।
ityatharvaṇavākyam ।
brahmādyācaraṇaṃ vidyānna bibheti kadācaneti ॥ 12॥
यो दूर्वाङ्कुरैर्यजति ।
स वैश्रवणोपमो भवति ।
यो लाजैर्यजति ।
स यशोवान् भवति ।
स मेधावान् भवति ।
यो मोदकसहस्रेण यजति स
वाञ्छितफलमवाप्नोति ।
यः साज्य समिद्भिर्यजति ।
स सर्वं लभते स सर्वं लभते ॥ १३॥
yo dūrvāṅkurairyajati ।
sa vaiśravaṇopamo bhavati ।
yo lājairyajati ।
sa yaśovān bhavati ।
sa medhāvān bhavati ।
yo modakasahasreṇa yajati sa
vāñchitaphalamavāpnoti ।
yaḥ sājya samidbhiryajati ।
sa sarvaṃ labhate sa sarvaṃ labhate ॥ 13॥
अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा ।
सूर्यवर्चस्वी भवति ।
सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा ।
सिद्धमन्त्रो भवति ।
महाविघ्नात् प्रमुच्यते ।
महादोषात् प्रमुच्यते ।
महापापात्
प्रमुच्यते ।
महाप्रत्यवायात् प्रमुच्यते ।
स सर्वविद्भवति स
सर्वविद्भवति ।
य एवं वेद ।
इत्युपनिषत् ॥ १४॥
aṣṭau brāhmaṇān samyag grāhayitvā ।
sūryavarcasvī bhavati ।
sūryagrahe mahānadyāṃ pratimāsannidhau vā japtvā ।
siddhamantro bhavati ।
mahāvighnāt pramucyate ।
mahādoṣāt pramucyate ।
mahāpāpāt
pramucyate ।
mahāpratyavāyāt pramucyate ।
sa sarvavidbhavati sa
sarvavidbhavati ।
ya evaṃ veda ।
ityupaniṣat ॥ 14॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा्ँ सस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ।
bhadraṃ paśyemākṣabhiryajatrāḥ ।
sthirairaṅgaistuṣṭuvām̐ sastanūbhiḥ ।
vyaśema devahitaṃ yadāyuḥ ।
svasti na indro vṛddhaśravāḥ ।
svasti naḥ pūṣā viśvavedāḥ ।
svasti nastārkṣyo ariṣṭanemiḥ ।
svasti no bṛhaspatirdadhātu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति गणपत्युपनिषत्समाप्ता ॥
iti gaṇapatyupaniṣatsamāptā ॥