A World of Knowledge
    Upanishads

    Rudraakshajabala Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ रुद्राक्षजाबालोपनिषत् ॥

    ॥ rudrākṣajābālopaniṣat ॥

    रुद्राक्षोपनिषद्वेद्यं महारुद्रतयोज्ज्वलम् ।
    प्रतियोगिविनिर्मुक्तशिवमात्रपदं भजे ॥

    rudrākṣopaniṣadvedyaṃ mahārudratayojjvalam ।
    pratiyogivinirmuktaśivamātrapadaṃ bhaje ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
    śrotramatho balamindriyāṇi ca ॥

    सर्वाणि सर्वं ब्रह्मोपनिषदं
    माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-
    स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि
    सन्तु ते मयि सन्तु ॥

    sarvāṇi sarvaṃ brahmopaniṣadaṃ
    māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇama-
    stvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi
    santu te mayi santu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    अथ हैनं कालाग्निरुद्रं भुसुण्डः
    पप्रच्छ कथं रुद्राक्षोत्पत्तिः ।

    atha hainaṃ kālāgnirudraṃ bhusuṇḍaḥ
    papraccha kathaṃ rudrākṣotpattiḥ ।

    तद्धारणात्किं फलमिति ।

    taddhāraṇātkiṃ phalamiti ।

    तं होवाच भगवान्कालाग्निरुद्रः ।

    taṃ hovāca bhagavānkālāgnirudraḥ ।

    त्रिपुरवधार्थमहं निमीलिताक्षोऽभवम् ।

    tripuravadhārthamahaṃ nimīlitākṣo'bhavam ।

    तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्षा जाताः ।

    tebhyo jalabindavo bhūmau patitāste rudrākṣā jātāḥ ।

    सर्वानुग्रहार्थाय तेषां नामोच्चारणमात्रेण
    दशगोप्रदानफलं दर्शनस्पर्शनाभ्यां द्विगुणं
    फलमत ऊर्ध्वं वक्तुं न शक्नोमि ।

    sarvānugrahārthāya teṣāṃ nāmoccāraṇamātreṇa
    daśagopradānaphalaṃ darśanasparśanābhyāṃ dviguṇaṃ
    phalamata ūrdhvaṃ vaktuṃ na śaknomi ।

    तत्रैते श्लोका भवन्ति ।
    कस्मिंस्थितं तु किं नाम कथं वा धार्यते नरैः ।
    कतिभेदमुखान्यत्र कैर्मन्त्रैर्धार्यते कथम् ॥ १॥

    tatraite ślokā bhavanti ।
    kasmiṃsthitaṃ tu kiṃ nāma kathaṃ vā dhāryate naraiḥ ।
    katibhedamukhānyatra kairmantrairdhāryate katham ॥ 1॥

    दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया ।
    भूमावक्षिपुटाभ्यां तु पतिता जलबिन्दवः ॥ २॥

    divyavarṣasahasrāṇi cakṣurunmīlitaṃ mayā ।
    bhūmāvakṣipuṭābhyāṃ tu patitā jalabindavaḥ ॥ 2॥

    तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः ।
    स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ॥ ३॥

    tatrāśrubindavo jātā mahārudrākṣavṛkṣakāḥ ।
    sthāvaratvamanuprāpya bhaktānugrahakāraṇāt ॥ 3॥

    भक्तानां धारणात्पापं दिवारात्रिकृतं हरेत् ।
    लक्षं तु दर्शनात्पुण्यं कोटिस्तद्धारणाद्भवेत् ॥ ४॥

    bhaktānāṃ dhāraṇātpāpaṃ divārātrikṛtaṃ haret ।
    lakṣaṃ tu darśanātpuṇyaṃ koṭistaddhāraṇādbhavet ॥ 4॥

    तस्य कोटिशतं पुण्यं लभते धारणान्नरः ।
    लक्षकोटिसहस्राणि लक्षकोटिशतानि च ॥ ५॥

    tasya koṭiśataṃ puṇyaṃ labhate dhāraṇānnaraḥ ।
    lakṣakoṭisahasrāṇi lakṣakoṭiśatāni ca ॥ 5॥

    तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् ।
    धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥ ६॥

    tajjapāllabhate puṇyaṃ naro rudrākṣadhāraṇāt ।
    dhātrīphalapramāṇaṃ yacchreṣṭhametadudāhṛtam ॥ 6॥

    बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः ।
    अधमं चणमात्रं स्यात्प्रक्रियैषा मयोच्यते ॥ ७॥

    badarīphalamātraṃ tu madhyamaṃ procyate budhaiḥ ।
    adhamaṃ caṇamātraṃ syātprakriyaiṣā mayocyate ॥ 7॥

    ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।
    वृथा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ८॥

    brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।
    vṛthā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ ॥ 8॥

    श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।
    पीतास्तु वैश्या विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥ ९॥

    śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।
    pītāstu vaiśyā vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥ 9॥

    ब्राह्मणो बिभृयाच्छ्वेतात्रक्तात्राजा तु धारयेत् ।
    पीतान्वैश्यस्तु बिभृयात्कृष्णाञ्छूद्रस्तु धारयेत् ॥ १०॥

    brāhmaṇo bibhṛyācchvetātraktātrājā tu dhārayet ।
    pītānvaiśyastu bibhṛyātkṛṣṇāñchūdrastu dhārayet ॥ 10॥

    समाः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः ।
    कृमिदष्टं भिन्नभिन्नं कण्टकैर्हीनमेव च ॥ ११॥

    samāḥ snigdhā dṛḍhāḥ sthūlāḥ kaṇṭakaiḥ saṃyutāḥ śubhāḥ ।
    kṛmidaṣṭaṃ bhinnabhinnaṃ kaṇṭakairhīnameva ca ॥ 11॥

    व्रणयुक्तमयुक्तं च षड्रुद्राक्षाणि वर्जयेत् ।
    स्वयमेव कृतं द्वारं रुद्राक्षं स्यादिहोत्तमम् ॥ १२॥

    vraṇayuktamayuktaṃ ca ṣaḍrudrākṣāṇi varjayet ।
    svayameva kṛtaṃ dvāraṃ rudrākṣaṃ syādihottamam ॥ 12॥

    यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ।
    समान्स्निग्धान्दृढान्स्थूलान्क्षौमसूत्रेण धारयेत् ॥ १३॥

    yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet ।
    samānsnigdhāndṛḍhānsthūlānkṣaumasūtreṇa dhārayet ॥ 13॥

    सर्वगात्रेण सौम्येन सामान्यानि विचक्षणः ।
    निकषे हेमरेखाभा यस्य रेखा प्रदृश्यते ॥ १४॥

    sarvagātreṇa saumyena sāmānyāni vicakṣaṇaḥ ।
    nikaṣe hemarekhābhā yasya rekhā pradṛśyate ॥ 14॥

    तदक्षममुत्तमं विद्यात्तद्धार्यं शिवपूजकैः ।
    शिखायामेकरुद्राक्षं त्रिशतं शिरसा वहेत् ॥ १५॥

    tadakṣamamuttamaṃ vidyāttaddhāryaṃ śivapūjakaiḥ ।
    śikhāyāmekarudrākṣaṃ triśataṃ śirasā vahet ॥ 15॥

    षट्त्रिंशतं गले दध्यात्बाहोः षोडशषोडश ।
    मणिबन्धे द्वादशैव स्कन्धे पञ्चशतं वहेत् ॥ १६॥

    ṣaṭtriṃśataṃ gale dadhyātbāhoḥ ṣoḍaśaṣoḍaśa ।
    maṇibandhe dvādaśaiva skandhe pañcaśataṃ vahet ॥ 16॥

    अष्टोत्तरशतैर्मालामुपवीतं प्रकल्पयेत् ।
    द्विसरं त्रिसरं वापि सराणां पञ्चकं तथा ॥ १७॥

    aṣṭottaraśatairmālāmupavītaṃ prakalpayet ।
    dvisaraṃ trisaraṃ vāpi sarāṇāṃ pañcakaṃ tathā ॥ 17॥

    सराणां सप्तकं वापि बिभृयात्कण्ठदेशतः ।
    मुकुटे कुण्डले चैव कर्णिकाहारकेऽपि वा ॥ १८॥

    sarāṇāṃ saptakaṃ vāpi bibhṛyātkaṇṭhadeśataḥ ।
    mukuṭe kuṇḍale caiva karṇikāhārake'pi vā ॥ 18॥

    केयूरकटके सूत्रं कुक्षिबन्धे विशेषतः ।
    सुप्ते पीते सदाकालं रुद्राक्षं धारयेन्नरः ॥ १९॥

    keyūrakaṭake sūtraṃ kukṣibandhe viśeṣataḥ ।
    supte pīte sadākālaṃ rudrākṣaṃ dhārayennaraḥ ॥ 19॥

    त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते ।
    सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् ॥ २०॥

    triśataṃ tvadhamaṃ pañcaśataṃ madhyamamucyate ।
    sahasramuttamaṃ proktamevaṃ bhedena dhārayet ॥ 20॥

    शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण तु ।
    अघोरेण गले धार्यं तेनैव हृदयेऽपि च ॥ २१॥

    śirasīśānamantreṇa kaṇṭhe tatpuruṣeṇa tu ।
    aghoreṇa gale dhāryaṃ tenaiva hṛdaye'pi ca ॥ 21॥

    अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः ।
    पञ्चाशदक्षग्रथितान्व्योमव्याप्यपि चोदरे ॥ २२॥

    aghorabījamantreṇa karayordhārayetsudhīḥ ।
    pañcāśadakṣagrathitānvyomavyāpyapi codare ॥ 22॥

    पञ्च ब्रह्मभिरङ्गैशच त्रिमाला पञ्च सप्त च ।
    ग्रथित्वा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् ॥ २३॥

    pañca brahmabhiraṅgaiśaca trimālā pañca sapta ca ।
    grathitvā mūlamantreṇa sarvāṇyakṣāṇi dhārayet ॥ 23॥

    अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुन्डः पप्रच्छ
    रुद्राक्षाणां भेदेन यदक्षं यत्स्वरूपं यत्फलमिति ।

    atha hainaṃ bhagavantaṃ kālāgnirudraṃ bhusunḍaḥ papraccha
    rudrākṣāṇāṃ bhedena yadakṣaṃ yatsvarūpaṃ yatphalamiti ।

    तत्स्वरूपं मुखयुक्तमरिष्टनिरसनं कामाभीष्टफलं
    ब्रूहीति होवाच ।

    tatsvarūpaṃ mukhayuktamariṣṭanirasanaṃ kāmābhīṣṭaphalaṃ
    brūhīti hovāca ।

    तत्रैते श्लोका भवन्ति ॥

    tatraite ślokā bhavanti ॥

    एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् ।
    तद्धारणात्परे तत्त्वे लीयते विजितेन्द्रियः ॥ १॥

    ekavaktraṃ tu rudrākṣaṃ paratattvasvarūpakam ।
    taddhāraṇātpare tattve līyate vijitendriyaḥ ॥ 1॥

    द्विवक्त्रं तु मुनिश्रेष्ठ चार्धनारीश्वरात्मकम् ।
    धारणादर्धनारीशः प्रीयते तस्य नित्यशः ॥ २॥

    dvivaktraṃ tu muniśreṣṭha cārdhanārīśvarātmakam ।
    dhāraṇādardhanārīśaḥ prīyate tasya nityaśaḥ ॥ 2॥

    त्रिमुखं चैव रुद्राक्षमग्नित्रयस्वरूपकम् ।
    तद्धारणाच्च हुतभुक्तस्य तुष्यति नित्यदा ॥ ३॥

    trimukhaṃ caiva rudrākṣamagnitrayasvarūpakam ।
    taddhāraṇācca hutabhuktasya tuṣyati nityadā ॥ 3॥

    चतुर्मुखं तु रुद्राक्षं चतुर्वक्त्रस्वरूपकम् ।
    तद्धारणाच्चतुर्वक्त्रः प्रीयते तस्य नित्यदा ॥ ४॥

    caturmukhaṃ tu rudrākṣaṃ caturvaktrasvarūpakam ।
    taddhāraṇāccaturvaktraḥ prīyate tasya nityadā ॥ 4॥

    पञ्चवक्त्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् ।
    पञ्चवक्त्रः स्वयं ब्रह्म पुंहत्यां च व्यपोहति ॥ ५॥

    pañcavaktraṃ tu rudrākṣaṃ pañcabrahmasvarūpakam ।
    pañcavaktraḥ svayaṃ brahma puṃhatyāṃ ca vyapohati ॥ 5॥

    षड्वक्त्रमपि रुद्राक्षं कार्तिकेयाधिदैवतम् ।
    तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ६॥

    ṣaḍvaktramapi rudrākṣaṃ kārtikeyādhidaivatam ।
    taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam ॥ 6॥

    मतिविज्ञानसम्पत्तिशुद्धये धारयेत्सुधीः ।
    विनायकाधिदैवं च प्रवदन्ति मनीषिणः ॥ ७॥

    mativijñānasampattiśuddhaye dhārayetsudhīḥ ।
    vināyakādhidaivaṃ ca pravadanti manīṣiṇaḥ ॥ 7॥

    सप्तवक्त्रं तु रुद्राक्षं सप्तमाधिदैवतम् ।
    तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ८॥

    saptavaktraṃ tu rudrākṣaṃ saptamādhidaivatam ।
    taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam ॥ 8॥

    महती ज्ञानसम्पत्तिः शुचिर्धारणतः सदा ।
    अष्टवक्त्रं तु रुद्राक्षमष्टमात्राधिदैवतम् ॥ ९॥

    mahatī jñānasampattiḥ śucirdhāraṇataḥ sadā ।
    aṣṭavaktraṃ tu rudrākṣamaṣṭamātrādhidaivatam ॥ 9॥

    वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं तथा ।
    तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः ॥ १०॥

    vasvaṣṭakapriyaṃ caiva gaṅgāprītikaraṃ tathā ।
    taddhāraṇādime prītā bhaveyuḥ satyavādinaḥ ॥ 10॥

    नववक्त्रं तु रुद्राक्षं नवशक्त्यधिदैवतम् ।
    तस्य धारणमात्रेण प्रीयन्ते नवशक्तयः ॥ ११॥

    navavaktraṃ tu rudrākṣaṃ navaśaktyadhidaivatam ।
    tasya dhāraṇamātreṇa prīyante navaśaktayaḥ ॥ 11॥

    दशवक्त्रं तु रुद्राक्षं यमदैवत्यमीरितम् ।
    दर्शनाच्छान्तिजनकं धारणान्नात्र संशयः ॥ १२॥

    daśavaktraṃ tu rudrākṣaṃ yamadaivatyamīritam ।
    darśanācchāntijanakaṃ dhāraṇānnātra saṃśayaḥ ॥ 12॥

    एकादशमुखं त्वक्षं रुद्रैकादशदैवतम् ।
    तदिदं दैवतं प्राहुः सदा सौभाग्यवर्धनम् ॥ १३॥

    ekādaśamukhaṃ tvakṣaṃ rudraikādaśadaivatam ।
    tadidaṃ daivataṃ prāhuḥ sadā saubhāgyavardhanam ॥ 13॥

    रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् ।
    द्वादशादित्यरूपं च बिभर्त्येव हि तत्परम् ॥ १४॥

    rudrākṣaṃ dvādaśamukhaṃ mahāviṣṇusvarūpakam ।
    dvādaśādityarūpaṃ ca bibhartyeva hi tatparam ॥ 14॥

    त्रयोदशमुखं त्वक्षं कामदं सिद्धिदं शुभम् ।
    तस्य धारणमात्रेण कामदेवः प्रसीदति ॥ १५॥

    trayodaśamukhaṃ tvakṣaṃ kāmadaṃ siddhidaṃ śubham ।
    tasya dhāraṇamātreṇa kāmadevaḥ prasīdati ॥ 15॥

    चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् ।
    सर्वव्याधिहरं चैव सर्वदारोग्यमाप्नुयात् ॥ १६॥

    caturdaśamukhaṃ cākṣaṃ rudranetrasamudbhavam ।
    sarvavyādhiharaṃ caiva sarvadārogyamāpnuyāt ॥ 16॥

    मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च ।
    श्लेष्मातकं विड्वराहमभक्ष्यं वर्जयेन्नरः ॥ १७॥

    madyaṃ māṃsaṃ ca laśunaṃ palāṇḍuṃ śigrumeva ca ।
    śleṣmātakaṃ viḍvarāhamabhakṣyaṃ varjayennaraḥ ॥ 17॥

    ग्रहणे विषुवे चैवमयने संक्रमेऽपि च ।
    दर्शेषु पूर्णमासे च पूर्णेषु दिवसेषु च ।
    रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते ॥ १८॥

    grahaṇe viṣuve caivamayane saṃkrame'pi ca ।
    darśeṣu pūrṇamāse ca pūrṇeṣu divaseṣu ca ।
    rudrākṣadhāraṇātsadyaḥ sarvapāpaiḥ pramucyate ॥ 18॥

    रुद्राक्षमूलं तद्ब्रह्मा तन्नालं विष्णुरेव च ।
    तन्मुखं रुद्र इत्याहुस्तद्बिन्दुः सर्वदेवताः ॥ १९॥

    rudrākṣamūlaṃ tadbrahmā tannālaṃ viṣṇureva ca ।
    tanmukhaṃ rudra ityāhustadbinduḥ sarvadevatāḥ ॥ 19॥

    इति ॥

    iti ॥

    अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः
    पप्रच्छाधीहि भगवन्रुद्राक्षधारणविधिम् ।

    atha kālāgnirudraṃ bhagavantaṃ sanatkumāraḥ
    papracchādhīhi bhagavanrudrākṣadhāraṇavidhim ।

    तस्मिन्समये निदाघ-
    जडभरतदत्तात्रेयकात्यायनभरद्वाजकपिलवसिष्ठ-
    पिप्पलादादयश्च कालाग्निरुद्रं परिसमेत्योचुः ।

    tasminsamaye nidāgha-
    jaḍabharatadattātreyakātyāyanabharadvājakapilavasiṣṭha-
    pippalādādayaśca kālāgnirudraṃ parisametyocuḥ ।

    अथ कालाग्निरुद्रः किमर्थं भवतामागमनमिति होवाच ।

    atha kālāgnirudraḥ kimarthaṃ bhavatāmāgamanamiti hovāca ।

    रुद्राक्षधारणविधिं वै सर्वे श्रोतुमिच्छामह इति ।

    rudrākṣadhāraṇavidhiṃ vai sarve śrotumicchāmaha iti ।

    अथ कालाग्निरुद्रः प्रोवाच ।

    atha kālāgnirudraḥ provāca ।

    रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायन्ते ।

    rudrasya nayanādutpannā rudrākṣā iti loke khyāyante ।

    अथ सदाशिवः संहारकाले संहारं
    कृत्वा संहाराक्षं मुकुलीकरोति ।

    atha sadāśivaḥ saṃhārakāle saṃhāraṃ
    kṛtvā saṃhārākṣaṃ mukulīkaroti ।

    तन्नयनाज्जाता रुद्राक्षा इति होवाच ।

    tannayanājjātā rudrākṣā iti hovāca ।

    तस्माद्रुद्राक्षत्वमिति कालाग्निरुद्रः प्रोवाच ।

    tasmādrudrākṣatvamiti kālāgnirudraḥ provāca ।

    तद्रुद्राक्षे वाग्विषये कृते दशगोप्रदानेन
    यत्फलमवाप्नोति तत्फलमश्नुते ।

    tadrudrākṣe vāgviṣaye kṛte daśagopradānena
    yatphalamavāpnoti tatphalamaśnute ।

    स एष भस्मज्योती रुद्राक्ष इति ।

    sa eṣa bhasmajyotī rudrākṣa iti ।

    तद्रुद्राक्षं करेण स्पृष्ट्वा धारणमात्रेण
    द्विसहस्रगोप्रदानफलं भवति ।

    tadrudrākṣaṃ kareṇa spṛṣṭvā dhāraṇamātreṇa
    dvisahasragopradānaphalaṃ bhavati ।

    तद्रुद्राक्षे कर्णयोर्धार्यमाणे
    एकादशसहस्रगोप्रदानफलं भवति ।

    tadrudrākṣe karṇayordhāryamāṇe
    ekādaśasahasragopradānaphalaṃ bhavati ।

    एकादशरुद्रत्वं च गच्छति ।

    ekādaśarudratvaṃ ca gacchati ।

    तद्रुद्राक्षे शिरसि धार्यमाणे कोटिगोप्रदानफलं
    भवति ।

    tadrudrākṣe śirasi dhāryamāṇe koṭigopradānaphalaṃ
    bhavati ।

    एतेषां स्थानानां कर्णयोः फलं वक्तुं न
    शक्यमिति होवाच ।

    eteṣāṃ sthānānāṃ karṇayoḥ phalaṃ vaktuṃ na
    śakyamiti hovāca ।

    य इमां रुद्राक्षजाबालोपनिषदं नित्यमधीते
    बालो वा युवा वा वेद स महान्भवति ।

    ya imāṃ rudrākṣajābālopaniṣadaṃ nityamadhīte
    bālo vā yuvā vā veda sa mahānbhavati ।

    स गुरुः सर्वेषां मन्त्राणामुपदेष्टा भवति एतैरेव
    होमं कुर्यात् ।

    sa guruḥ sarveṣāṃ mantrāṇāmupadeṣṭā bhavati etaireva
    homaṃ kuryāt ।

    एतैरेवार्चनम् ।

    etairevārcanam ।

    तथा रक्षोघ्नं मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ
    शिखायां वा बध्नीत ।

    tathā rakṣoghnaṃ mṛtyutārakaṃ guruṇā labdhaṃ kaṇṭhe bāhau
    śikhāyāṃ vā badhnīta ।

    सप्तद्वीपवती भूमिर्दक्षिणार्थं नावकल्पते ।

    saptadvīpavatī bhūmirdakṣiṇārthaṃ nāvakalpate ।

    तस्माच्छ्रद्धया यां काञ्चिद्गां दद्यात्सा दक्षिणा भवति ।

    tasmācchraddhayā yāṃ kāñcidgāṃ dadyātsā dakṣiṇā bhavati ।

    य इमामुपनिषदं ब्राह्मणः सायमधीयानो दिवसकृतं
    पापं नाशयति ।

    ya imāmupaniṣadaṃ brāhmaṇaḥ sāyamadhīyāno divasakṛtaṃ
    pāpaṃ nāśayati ।

    मध्याह्नेऽधीयानः षड्जन्मकृतं पापं नाशयति ।

    madhyāhne'dhīyānaḥ ṣaḍjanmakṛtaṃ pāpaṃ nāśayati ।

    सायं प्रातः प्रयुञ्जानोऽनेकजन्मकृतं पापं नाशयति ।

    sāyaṃ prātaḥ prayuñjāno'nekajanmakṛtaṃ pāpaṃ nāśayati ।

    षट्सहस्रलक्षगायत्रीजपफलमवाप्नोति ।

    ṣaṭsahasralakṣagāyatrījapaphalamavāpnoti ।

    ब्रह्महत्यासुरापान-
    स्वर्णस्तेयगुरुदारगमनतत्संयोगपातकेभ्यः पूतो भवति ।

    brahmahatyāsurāpāna-
    svarṇasteyagurudāragamanatatsaṃyogapātakebhyaḥ pūto bhavati ।

    सर्वतीर्थफलमश्नुते ।

    sarvatīrthaphalamaśnute ।

    पतितसंभाषणात्पूतो भवति ।

    patitasaṃbhāṣaṇātpūto bhavati ।

    पङ्क्तिशतसहस्रपावनो भवति ।

    paṅktiśatasahasrapāvano bhavati ।

    शिवसायुज्यमवाप्नोति ।

    śivasāyujyamavāpnoti ।

    न च पुनरावर्तते न च पुनरावर्तत इत्योंसत्यमित्युपनिषत् ॥

    na ca punarāvartate na ca punarāvartata ityoṃsatyamityupaniṣat ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
    बलमिन्द्रियाणि च ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho
    balamindriyāṇi ca ॥

    सर्वाणि सर्वं ब्रह्मोपनिषदं माहं
    ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-
    स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
    मयि सन्तु ते मयि सन्तु ॥

    sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ
    brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇama-
    stvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste
    mayi santu te mayi santu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति रुद्राक्षजाबालोपनिषत्समाप्ता ॥

    iti rudrākṣajābālopaniṣatsamāptā ॥


    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact